(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.79. अध्यायः 079
Mahabharata - Udyoga Parva - Chapter Topics
नकुलेन श्रीकृष्णंप्रति स्वस्य शमे अभिसन्धिप्रदर्शनपूर्वकं सन्धिकरणस्य तेन सुशकत्वाभिधानम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

नकुल उवाच। 5-79-0x(3630)(34599)
उक्तं बहुविधं वाक्यं धर्मराजेन माधव।
धर्मज्ञेन वदान्येन श्रुतं चैव हि तत्त्वया ॥ 5-79-1(34600)
मतमाज्ञाय राज्ञश्च भीमसेनेन माधव ।
संशमो बाहुवीर्य च ख्यापितं माधवात्मनः ॥ 5-79-2(34601)
तथैव फाल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् ।
आत्मनश्च मतं वीर कथितं भवताऽसकृत् ॥ 5-79-3(34602)
सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान्।
यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम ॥ 5-79-4(34603)
तस्मिंरतस्मिन्निमित्ते हि मतं भवति केशव ।
प्राप्तकालं मनुष्येण क्षमं कार्यमरिन्दम ॥ 5-79-5(34604)
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा ।
अनित्यमतयो लोके नराः पुरुषसत्तम ॥ 5-79-6(34605)
अन्यथाबुद्धयो ह्यासन्नस्मासु वनवासिषु।
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ॥ 5-79-7(34606)
अस्माकमपि वार्ष्णेय वने विचरतां तदा।
न तथा प्रणयो राज्ये यथा संप्रति वर्तते ॥ 5-79-8(34607)
निवृत्तवनवासान्नः श्रुत्वा वीर समागताः ।
अक्षौहिण्यो हि सप्ते मास्त्वत्प्रसादाज्जनार्दन ॥ 5-79-9(34608)
इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषात्।
आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् ॥ 5-79-10(34609)
स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयोत्तरम्।
ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः ॥ 5-79-11(34610)
युधिष्ठिरं भीमसेनं बीभत्सुं चापराचितम् ।
सहदेवं च मां चैव त्वां च रामं च केशव॥ 5-79-12(34611)
सात्यकिं च महावीर्यं विराटं च महात्मजम्।
द्रुपदं च महामात्यं धृष्टद्युम्नं च माधव॥ 5-79-13(34612)
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् ।
मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ॥ 5-79-14(34613)
स भवान्गमनादेव साधयिष्यत्यसंशयम्।
इष्टमर्थं महाबाहो धर्मराजस्य केवलम्॥ 5-79-15(34614)
विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः ।
श्रेयः समर्था विज्ञातुमुच्यमानास्त्वयाऽनघ ॥ 5-79-16(34615)
ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् ।
तं च पापसमाचारं सहामात्यं सुयोधनम् ॥ 5-79-17(34616)
श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन ।
कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि ॥ ॥ 5-79-18(34617)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकोनाशीतितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-79-18 अर्थं प्रयोजनम् । निवर्तन्तं भ्रश्यन्तम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.